Five Dreams of Sri Aurobindo
भारतस्य स्वाधीनतादिवसे श्रीअरविन्दस्य सन्देशः
१५. ८ १९४७
अगस्तमासस्य पञ्चदशदिनाङ्कः स्वाधीनभारतस्य जन्मदिवसः । अयं तस्मै पुरातनयुगस्य समाप्तिं नूतनयुगस्य आरम्भं च सूचयति । एतद् दिनं न केवलं अस्माकम् अर्थे अपि तु एशियाभूखण्डस्य पृथिव्याश्च अर्थे गूढार्थपूर्णं यतो हि इदं राष्ट्रमण्डले असीमक्षमतापूर्णायाः कस्याः अपि नूतनशक्त्याः आविर्भावं द्योतयति या मानवजातेः राजनैतिक-सामाजिक-सांस्कृतिक-आध्यात्मिक-भविष्यनिर्माणे महत्त्वपूर्ण-भूमिकायाः निर्वाहं करिष्यति । एषः दिवसः मदीयजन्मदिनत्वात् मदर्थे एव स्मरणीयः आसीत् यतो हि इमं ते सर्वेऽपि सम्मानयन्ति ये मम जीवनसम्बन्धिशिक्षाम् अनुसरन्ति । अधुना इदं तथ्यं मयि व्यक्तिगतरूपेण स्वभावतः प्रसन्नतां जनयितुं शक्नोति यत् मम जन्मदिवसः एतावत् विपुलं महत्त्वं प्राप्तवान् । अध्यात्मविदः ममार्थे न अयं कोऽपि आकस्मिकः संयोगः अपि तु पृथिव्याम् ईश्वरीयनियोगपूर्त्यर्थं मम मार्गदर्शनं कुर्वत्या दिव्यशक्त्या मत्कार्यस्य अनुमोदनं तस्मिन् स्वमुद्राङ्कनं च । पृथिव्याः प्रायः सर्वाणि आन्दोलनानि अहं स्वजीवितावधौ सफलानि पश्येयम् इति मे अभिलाषः आसीत् । वस्तुतः अस्यां तिथौ अहं तानि सफलप्रायाणि, आरब्धचराणि सिद्धिपथे अग्रगामीनि वा पश्यामि ।
अस्मिन् भव्यावसरे सन्देशप्रदानार्थम् अहं प्रार्थितः किन्तु मन्ये मम तादृशी स्थितिः नास्ति । अहं तावत् एतत् कर्तुं शक्नोमि – स्वस्य कैशोरे युवावस्थायां च सम्पोषितानां तेषां ध्येयानाम् आदर्शानां च व्यक्तिगतम् उद्घोषणम् अहं कुर्यां येषां सिद्धेः सूत्रपातः मया सन्दृष्टः । भारतवर्षस्य स्वाधीनता-सम्बद्धम् एतत्सर्वम् अपि तस्य भविष्यकार्यस्य एव अङ्गं यत्र तेन नेतृत्वं कर्तव्यम् । अहं सदैव अस्मिन् तथ्ये विश्वसिमि एतत् घोषयामि च यत् भारतवर्षस्य अभ्युत्थानं भवति न केवलं तस्य स्वकीयस्थूलस्वार्थानां पूर्तये न वा तस्य विस्तार-विख्याति-शक्ति-समृद्ध्यर्थम् , यद्यपि एतत्सर्वं तेन न अवहेलेनीयम् । तस्य अभ्युत्थानम् अन्यराष्ट्रवत् अपरजनसमुदायानाम् उपरि अधिकार-स्थापनार्थम् अपि न भवति अपि तु एतदर्थम् एव यत् सः सम्पूर्णमानवजातेः नेता सहायकश्च भूत्वा भगवते पृथिव्यै च जीवनं धारयेत् । तानि ध्येयानि ते आदर्शाश्च स्वाभाविकक्रमेण इमे सन्ति -- १. किमपि क्रान्तिकारि आन्दोलनं येन भारतस्य स्वाधीनता तस्य ऐक्यं च संसिद्धं भवेत् । २. एशियाभूखण्डस्य पुनरुत्थानम् , मुक्तिः तथा तेन मानवसभ्यतायाः प्रगतौ साधितायाः महाभूमिकायाः पुनर्ग्रहणम् । ३. मानवजात्यर्थं कापि नवीना, महत्तरा, उज्ज्वलतरा भव्यतरा च जीवनपद्धतिः या समग्रसिद्ध्यर्थं बाह्यतः पृथगस्तित्वधारिणां राष्ट्राणां किमपि अन्ताराष्ट्रियम् ऐक्यम् आश्रयिष्यति या च तेषां जीवनं सुरक्षितम् अक्षुण्णं च कुर्वती तानि एकस्मिन् परमे चरमे च एकत्वसूत्रे ग्रन्थयिष्यति । ४. भारतं समग्रमानवजात्यै स्वस्य अध्यात्मज्ञानम् , जीवनस्य आध्यात्मीकरणार्थं स्वकीय-साधनानि च प्रदास्यति । ५. अन्ते च विवर्तनक्रमे कश्चित् नूतनः पदक्षेपः येन मानवचेतना उच्चतरस्तरं प्रति उन्नीता भविष्यति । तस्य परिणामतः यदा प्रभृति व्यक्तिगतपूर्णतायाः पूर्णाङ्गसमाजस्य च विषये मानवः चिन्तितवान् कल्पितवान् वा तदा प्रभृति तस्य जीवने उद्भूतानां तासां सर्वासाम् अपि समस्यानां समाधानस्य सूत्रपातः भविष्यति याभिः मानवजातिः नितरां विमूढा विक्षुब्धा च ।
भारतवर्षः अद्य स्वाधीनः किन्तु तेन ऐक्यं न प्राप्तम् – प्राप्ता केवलं दीर्णा खण्डिता च स्वाधीनता । एकदा इदं प्रतीयते स्म यत् सः विच्छिन्नराज्यानां तां दुर्दशां पुनः प्राप्स्यति या आङ्ग्लानां विजयात् पूर्वम् आसीत् । सौभाग्यवशात् सा भीषणा दुर्गतिः वारयितुं शक्यते इति सम्भावना साम्प्रतं दृढमूला भवति । संविधानसभायाः विज्ञतापूर्ण-दृढनीत्या अनुन्नतवर्गाणां समस्यायाः समाधानं भेदं विभागं वा विना कर्तुं शक्यते । किन्तु हिन्दुमुस्लिमानां पुरातनं साम्प्रदायिक-विभाजनं देशस्य स्थायि-राजनैतिक-विभाजनस्य कठोररूपेण परिणतम् इति प्रतिभाति । तथापि आशास्यते यत् राष्ट्रं राष्ट्रियमहासभा च इदं निर्धारिततथ्यं त्रिकालार्थं निर्णीतं न मंस्यते नापि एतत् अस्थाय्युपायाद् अधिकं किञ्चिद् इति स्वीकरिष्यतः । यतो हि यदि एतत् स्थायि स्यात् , तर्हि भारतं भृशं दुर्बलम् , किं बहुना, विकलाङ्गं भवेत् – गृहयुद्धस्य सम्भावना सदैव तिष्ठेत् , सम्भवेत् च नवीनाक्रमणं विदेशीयविजयश्च । देशस्य विभाजनेन दूरीभाव्यमेव । आशासनीयं खलु एतत् परस्परसङ्घर्षस्य शिथिलीभावेन, शान्ति-सामञ्जस्ययोः आवश्यकतायाः उत्तरोत्तरबोधेन, संयुक्त-सङ्घटित-कार्यस्य तदर्थं कस्यापि ऐक्ययन्त्रस्य च सततावश्यकतायाः अनुभवेन । इत्थम् एकत्वं यत्किमपि रूपं धारयित्वा संसिद्धं भवेत् – तदीय-यथार्थरूपस्य व्यावहारिकम् एव महत्त्वं स्यात् न तु मौलिकम् इत्यपि सम्भाव्यते । किन्तु येन केनापि उपायेन विभाजनं विलुप्तं भवेद् एव , भविष्यति च । यतो हि अनेन विना भारतस्य भाग्यं भीषणतया क्षतिग्रस्तं भवेत् , किं बहुना, व्याहृतं खण्डितं च स्यात् । किन्तु तथा न हि भाव्यम् ।
एशियाभूखण्डः जागरितः। तस्य नैके भागाः स्वाधीनाः वा, अस्मिन् मुहुर्ते स्वाधीनतां लभन्ते वा ; अन्ये पराधीनभागाः स्वाधीनताप्राप्तये नितरां सङ्ग्रामरताः । अत्यल्पं कार्यम् अवशिष्टं तच्च अद्य वा श्वः वा भविष्यति एव । तत्र भारतस्य निजभूमिका वर्तते सा च तेन शक्त्या दक्षतया च निर्वोढुम् आरब्धा । एतत् तस्य क्षमतायाः मानं राष्ट्रपरिषदि स्थानं च प्रति शुभसङ्केतं करोति ।
मानवजातेः एकीकरणम् आरब्धं किन्तु तस्य आरम्भः त्रुटिपूर्णः । व्यवस्थितं सदपि तद् घोरसङ्घर्षे बाध्यमानम् । तथापि तत्र प्रवेगः वर्तते । अतः इतिहासस्य अनुभवाधारेण इदं वक्तुं शक्यं यद् एषः अन्तिमविजयं यावत् अनिवार्यतया वर्धिष्यते । अत्रापि भारतवर्षः प्रमुखभागं ग्रहीतुम् आरब्धवान् । यदि सः ताम् एव उदारां राष्ट्रनीतिम् अनुसरेत् या सामयिकघटनाभिः सद्यःसम्भावनाभिश्च न सीमिता अपि तु या भविष्यं पश्यति तच्च निकटतरं करोति, तर्हि अन्ताराष्ट्रियक्षेत्रे तस्य उपस्थित्या कातरा मन्थरा च प्रगतिः साहसपूर्णा द्रुता च भवेत् । तथापि शुभपरिणामः सुनिश्चितः । यतो हि एकीकरणं प्रकृत्याः गतिधारायाम् आवश्यकम् अनिवार्यं च । तस्य संसिद्धेः भविष्यवाणी निःसन्देहं कर्तुं शक्यते । राष्ट्राणाम् अर्थेऽपि तस्य आवश्यकता सुस्पष्टा । तेन विना क्षुद्रराष्ट्राणां स्वातन्त्र्यं कदाचित् विपद्ग्रस्तं भवेत् , शक्तिसम्पन्नानि बृहद्राष्ट्राणि अपि सुरक्षितानि न स्युः । यदि भारतं खण्डितं विभक्तं च तिष्ठेत् तर्हि तस्य सुरक्षा अनिश्चिता स्यात् । अतः सर्वेषां हिताय एकीकरणं संसिद्धं भवतु । केवलं मानवीयमूढता हीनस्वार्थपरता च एतत् बाधितुं शक्नोति । श्रूयते तस्याः विरुद्धं देवानाम् अपि प्रयासाः विफलीभवन्ति इति । किन्तु सा प्रकृतेः आवश्यकतायाः भगवत्सङ्कल्पस्य च विरुद्धं चिरकालं स्थातुं न शक्नोति । अथ राष्ट्रियता स्वतः संसिद्धा भविष्यति, अन्ताराष्ट्रियः भावः दृष्टिकोणश्च वर्धिष्येते, अन्ताराष्ट्रियाः व्यवस्थाः संस्थाश्च रचयिष्यन्ते । इदम् अपि शक्यं भवेत् यत् कस्यापि राष्ट्रस्य नागरिकः राष्ट्रद्वयस्य बहुराष्ट्राणां वा नागरिकताधिकारं प्राप्नुयात् । राष्ट्रियभावना युद्धप्रवृत्तिं विहाय स्वीयदृष्टिकोणानुरूपम् एतत् सर्वमपि स्वीकर्तुं शक्नुयात् ।
अत्रान्तरे पृथिव्यै भारतस्य आध्यात्मिकम् अवदानं प्रारब्धम् । भारतस्य आध्यात्मिकता यूरोपखण्डे अमेरिकादेशे च उत्तरोत्तरं प्रसारं लभते । इयं गतिः क्रमशः वर्धिष्यते । सङ्कटकालेऽस्मिन् अधिकाधिक-जनानाम् आशापूर्णा दृष्टिः भारते आपतिष्यति । जनसमुदायः न केवलं तदीयशिक्षाम् अपि तु तस्य अन्तरात्मिकीम् आध्यात्मिकीं च साधनाम् अपि उत्तरोत्तरम् आश्रयिष्यति ।
अवशिष्टोऽस्ति मदीयः व्यक्तिगतः अभिलाषः – कापि कल्पना, कश्चन आदर्शः यः भारते पाश्चात्यदेशेषु च मनीषिणां मनसि बलवद् पदं करोति । मानवप्रयासस्य अन्यक्षेत्रापेक्षया अस्मिन् बाधाः प्रतिबन्धाः च प्रबलतराः । बाधाः प्रतिबन्धाः च अतिक्रमणार्थम् एव अभिप्रेताः किञ्च ते परमेश्वरस्य सङ्कल्पबलेन अतिक्रमिष्यन्ते एव । अत्रापि यदि अन्तरात्मनः अन्तश्चेतनायाश्च विकासमाध्यमेन इदं विवर्तनं सम्भवेत् तर्हि तस्य सूत्रपातः भारते एव भवितुं शक्नोति । तस्य क्षेत्रं विश्वव्यापि भवेत् किन्तु केन्द्रीयम् आन्दोलनं तु भारते एव स्यात् ।
अद्य भारतस्य स्वाधीनतादिवसेन सह अहम् इदं तथ्यजातं संयोजयामि । अस्य सिद्धिः भविष्यति न वा, कियतांशेन कियत् शीघ्रं वा भविष्यति इति एतत् नवीनम् , स्वाधीनं भारतम् अवलम्बते ।
See Also